वले परतः पूर्वस्य दीर्घः भवति। आसुतीवलः। कृषीवलः। दन्तावलः। रजःकृष्यासुतिपर्षदो वलच्
५।२।१११ इति वलच् प्रत्ययो गृह्यते, न प्रातिपदिकम्। अनुत्साहभ्रातृपितृ̄णाम् इत्येव। उत्साहवलः। भ्रातृवलः। पितृवलः।
"वलच्प्रत्ययो गृह्रते, न प्रातिपदिकम्()" इति। एतच्च वक्ष्यमाणस्येह बहुलग्रहणस्य सिंहावलोकितव्यायेनोपस्थानाल्लभ्यत इत्येके। अनन्तरं वक्ष्यमाणेन मतुपा प्त्ययेन साहचर्याच्चेत्पपरे॥